श्री गुरुगीता


श्री गुरुगीता

Guru Geeta 

 

इस गुरु गीता का भी उतना ही महत्‍व है जितना भगवान श्री कृष्ण के द्वारा बताई गई गीता का। गुरु गीता का नित्य श्रवण करने से सभी साधनाओं में सफलता प्राप्त होती हैं और देवताओं का आशीर्वाद प्राप्‍त होता है।

 

Guru Geeta 

 

ॐ अस्य श्री गुरुगीता स्तोत्रमन्त्रस्य ।
भगवान् सदाशिव ऋषिः ।
नानाविधानि छन्दांसि ।
श्री गुरुपरमात्मा देवता ।
हं बीजम् । सः शक्तिः । क्रों कीलकम् ।
श्री गुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

॥ गुरु ध्यानम् ॥
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणैर् -
विश्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया 
तद्द्योतं पदशांभवं तु चरणं दीपाङ्कुरग्राहिणं
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् 

गूढ विद्या जगन्माया देहे चाज्ञानसंभवा 
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते 

सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् 
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते 

गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत् 
सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः 

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् 
गुरुपादोदकं सम्यक् संसारार्णवतारकम् 

अज्ञानमूलहरणं जन्म कर्म निवारणम् 
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत् 

गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम् 
गुरुमूर्तेः सदा ध्यानं गुरुमन्त्रं सदा जपेत् 

काशी क्षेत्रं तन्निवासो जाह्नवी चरणोदकम् 
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् 

गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः 
तीर्थराजः प्रयागश्च गुरुमूर्त्यै नमो नमः 

गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् 
गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् 

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते 
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः 

साधकेन प्रदातव्यं गुरुसंतोषकारकम् 
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् 

कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् 
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ 

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः 
गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः 

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया 
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः 

त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता 
संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः 

यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् 
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः 

येन चेतयते हीदं चित्तं चेतयते न यम् 
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः 

यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः 
सदेकरूपरूपाय तस्मै श्रीगुरवे नमः

यस्यामतं तस्य मतं मतं यस्य न वेद सः 
अनन्यभाव भावाय तस्मै श्रीगुरवे नमः 

यस्य कारणरूपस्य कार्यरूपेण भाति यत् 
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः 

नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता 
कार्यकारणता चैव तस्मै श्रीगुरवे नमः 

शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो न हि 
तस्मात् सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् 

गुकारं च गुणातीतं रुकारं रूपवर्जितम् 
गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः 

श्रीगुरोः परमं रूपं विवेकचक्षुषोऽमृतम् 
मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा 

श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् 
यस्य चात्मतपो वेद देशिकं च सदा स्मरेत् 

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् 
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः 

यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् 
य एव सर्व सम्प्राप्तिस्तस्मै श्रीगुरवे नमः 

स्थावरं जङ्गमं चैव तथा चैव चराचरम् 
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः 

ज्ञानशक्तिसमारूढस्तत्त्वमाला विभूषितः 
भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः 

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः 
तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् 
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा 

॥  श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वतीसंवादे गुरुगीता समाप्त ॥


Click Here For The Audio of Shri Guru Geeta

 


Published on Mar 9th, 2018


Do NOT follow this link or you will be banned from the site!