Shri Hayagriva Kavacham


॥ श्री हयग्रीवकवचम् ॥ 

hayagriva kavach


Hayagreeva is a horse faced form of Lord Vishnu and is the God of knowledge & wisdom. It is believed that one who recites this powerful Haygriva kavacham becomes Brihaspati or the Master of every wisdom and art. 


Hayagriva Kavacham Text

 

श्री हयग्रीवकवचम् 
पार्वत्युवाच ।
देव देव महादेव करुणाकर शङ्कर 
त्वया प्रसाद शीलेन कथितानि रमापतेः 

बहूनामवताराणां बहूनि कवचानि च 
इदानीं श्रोतुमिच्छामि हयास्य कवचं विभो  
शिव उवाच ।
देवि प्रियं वदे तुभ्यं रहस्यमपि मत्प्रिये 
कलशाम्बुधिपीयूषं हयास्य कवचं वदे  

महाकल्पान्तयामिन्यां सञ्चरंस्तु हरि स्वयम् 
लीलया हयवक्त्राख्य रूपमास्थाय योऽहरत् 

पुत्रवात्सल्यतो मह्यं विरञ्चिरुपदिष्टवान् 
हयास्य कवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः
छन्दोऽनुष्टुप् तथा देवो हयग्रीव उदाहृतः 

ह्रौं बीजं तु समाख्यातं ह्रीं शक्तिः समुदाहृता 
ॐ कीलकं समाख्यातमुच्चैरुत् कीलकं तथा 

लक्ष्मीकराम्भोरुह हेमकुंभ पीयूषपूरैरभिषिक्त शीर्षम् 
व्याख्याक्षमालांबुज पुस्तकानि हस्तैर्वहन्तं हयतुण्डमीडे 

सुधासिक्तः शिरः पातु फालं पातु शशिप्रभः 
दृशौ रक्षतु दैत्यारिर्नासां वाग्जृम्भवारिधिः 

श्रोत्रं पातु स्थिरश्रोत्रः कपोलौ करुणानिधिः 
मुखं पातु गिरां स्वामी जिह्वां पातु सुरारिहृत् 

हनुं हनुमता सेव्यः कण्ठं वैकुण्ठनायकः 
ग्रीवां पातु हयग्रीवः हृदयं कमलाकरः

उदरं  विश्वभृत्पातु नाभिं पङ्कजलोचनः 
मेढ्रं प्रजापतिः पातु ऊरू पातु गदाधरः 

ऊर्ध्वं पातु हरिः साक्षात् अधः पातु गुणाकरः 
अन्तरिक्षे हरिः पातु विश्वतः पातु विश्वसृट् 

य एतत्कवचं धीमान् सन्नह्येन्निज विग्रहे 
दुर्वादिराक्षसव्यूहैः स कदाचिन्न बाध्यते 

पठेत् य एतत् कवचं त्रिसन्ध्यं भक्ति भावितः 
मूढोऽपि गीष्पतिस्पर्द्धी जायते नात्र संशयः 

इति श्रीहयग्रीवसंहितायां हयग्रीवकवचम्
 सम्पूर्णम् ॥



Click Here For The Audio of the Hayagriva Kavach

 


Published on Feb 2nd, 2017


Do NOT follow this link or you will be banned from the site!